अस्माक छत्तीसगढराज्यस्य लोकभाषासु गीतानाम् अविरलपरम्पराऽस्ति । अत्र लोकगीतेषु विविधताऽस्ति । अस्मिन् राज्ये लोकगीतानि लोकभाषायाम् अवलम्बितानि ।
छत्तीसगढस्य लोकगीतेषु संस्कारगीतं धार्मिकोत्सवगीत, ऋतुगीतादीनि च प्रचलन्ति । जनाः छत्तीसगढराज्ये संस्काराणाम् अवसरेषु अनेकानि गीतानि गायन्ति । एतेषु गीतेषु सोहरविवाहे गीते च प्रमुखे स्तः ।
सीमन्तसंस्कारावसरे गेयगीत सधौरीगीतम्’ इत्युच्यते। विवाहावसरे लोकाचाराणां परिपालनार्थं गेयगीतानां परम्परा प्रचलति । यथा प्रचलितलोकगीतेषु चूलमाटीगीतं. द्वारचारगीत, जेवनारगीतं, मॉवरगीतं, विदागीतञ्च प्रसिद्धानि सन्ति ।
जनैः एतानि गीतानि छत्तीसगढलोकभाषासु गीयन्ते । धार्मिकगीतानां विविधानि रुपाणि सन्ति । यथा शिवरामकृष्णानां विवाहगीतानि लोकप्रियाणि भक्तिगीतेषु भजनानि प्रसिद्धानि देव्याः जससेवागीतं प्रसिद्धम्।
ऋतुगीतेषु श्रावणभाद्रपदमासे भोजलीगीतं कार्तिकमासे शुकगीत, गौरागीतादीनि च लोकप्रियाणि । फाल्गुने मासे च दण्डनृत्यं, फागगीतादीनि च अतीव प्रसिद्धानि
अस्मिन् राज्ये ‘फुगडी’ इति लोकक्रीडा प्रसिद्धा इमां क्रीडा खेलन्त्यः बालिका फुगडी’ इति गीत गायन्ति
अत्र प्रचलित बास’ इति गीत मूलतः गोपालकानां गीतमस्ति । गोचारणसंस्कृतेः अभिव्यक्तिः एतेषां गीतानां माध्यमेन प्रतीयते। बांस इति एक अद्भुत वाद्ययन्त्रमस्ति यत् केवल छत्तीसगढराज्ये एव प्रचलति ।
राज्यस्य प्रसिद्धेषु लोकगीतेषु ददरियानृत्येन सह गेयपरम्परा विद्यते। अस्मात् कारणात अस्मिन् राज्ये लोकगीताना परम्परा वर्तते। अत्र अनेके लोककलाकाराः लोकगीतानां माध्यमेन प्रदेशस्य संस्कृति गौरवान्वितं कृतवन्तः । छत्तीसगढस्य जनजीवने लोकगीतानां वैशिष्ट्यम् एतत् । जना: लोकगीतमाश्रित्य आनन्दमनुभवन्ति स्वकीय जीवन उत्सवमयं सृजन्तीति।
शब्दार्थाः
लोकभाषासु = लोकभाषाओं में अविरल = अटूट / निरन्तर परम्पराऽस्ति परम्परा है। लोकगीतेषु = लोकगीतों में लोकभाषायाम् = लोकभाषा में अवलम्बितानि = आधारित है। प्रचलन्ति प्रचलित हैं। गायन्ति गाते हैं। गीतेषु गीतों में सीमन्त= सोलह संस्कार में से एक संस्कार जेवनार गीतं बारातियों के भोजन के समय गाया जाने वाला गीत विद्यते = है। माध्यमेन = माध्यम से कृतवन्तः = किये हैं। वैशिष्ट्यम् = विशिष्टता है। लोकगीतमाश्रित्य = लोकगीतों का आश्रय लेकर आनन्दमनुभवन्ति = आनन्द का अनुभव करते हैं। सृजन्ति = बनाते हैं।
अभ्यासप्रश्नाः
(1) निम्नलिखित प्रश्नों के उत्तर दीजिए-
(क) छत्तीसगढराज्ये कानि कानि लोकगीतानि प्रचलितानि ?
उतर- छत्तीसगढ़ राज्ये संस्कारगीत धार्मिकन्सवगीत, ऋतुमीलादीनि च लोकगीतोनी प्रचतिलानि।
(ख) सीमन्तसंस्कारावसरे गेयगीत किम् उच्च्यते ?
उतर- सीमन्त संस्कारावसरे गेगगीत सधैरीगीलम इत्युच्येते।
(ग) जनाः भोजलीगीत कस्मिन मासे गायन्ति ?
उतर- जना: भोजभीगीत श्रावणभाहपदमासे गायसि।
(घ) गोपालकानां गीत किमस्ति ।
उतर- गोपालकानो गीत ‘बाँस गीत उति प्रसिद्धम |
(ङ) फाल्गुनमासस्य प्रसिद्धगीत लिखतु ।
उतर- फाल्गुनमासस्य प्रसिक्षमीत कगणीतम् अस्ति।