मनोरमा कक्षा 8वीं

चतुरः वानरः clever: monkey

एकस्मिन् नदीतीरे एकः जम्बूवृक्षः आसीत्। तस्मिन् एकः वानरः प्रतिवसति स्म। सः नित्यं तस्य फलानि खादति स्म। कश्चित् मकरोऽपि तस्यां नद्यामवसत् वानर प्रतिदिनं तस्मै जम्बूफलानि अयच्छत् । तेन प्रीतः मकर तस्य वानरस्य मित्रमभवत्।

एकदा मकरः कानिचित् जम्बूफलानि पत्न्यै अपि दातुं आनयत् । तानि खादित्वा तस्य जाया अचिन्तयत् अहो! यः प्रतिदिनमीदृशानि फलानि खादति, नूनं तस्य हृदयमपि अतिमधुरं भविष्यति । सा पतिमकथयत्। भोःस्वामिन् ! जम्बूभक्षकस्य तव मित्रस्य हृदयमपि जम्बूवत् मधुरं भविष्यति । अहं तदेव खादितुमिच्छामि। तस्य हृदयभक्षणाय मम बलवती स्पृहा यदि मां जीवितां द्रष्टुम् इच्छसि तर्हि शीघ्रम् आनय तस्य वानरस्य हृदयम् ।

पत्न्याः हठात् विवशः मकर नदीतीरं गत्वा वानरमवदत् बन्धो! तव भ्रातृजाया त्वां द्रष्टुमिच्छति। अतः मम गृहमागच्छ वानर अपृच्छत् कुत्र ते गृहम् ? कथमहं तत्र गन्तुं शक्नोमि? ‘मकर अवदत् अलं चिन्तया अहं त्वां स्वपृष्ठे धृत्वा गृह नेष्यामि। तस्य वचनं श्रुत्वा विश्वस्त वानर तस्मात् वृक्षस्कन्धात अवतीर्य मकरपृष्ठे उपाविशत् ।

नदीजले वानर विदर्श मत्वा मकर अकथयत मम पत्नी तव हृदयं खादितुमिच्छति। तस्मै तव हृदयं दातुमेव त्वां नयामि। चतुरः वानरः शीघ्रमकथयत्- अरे मूर्ख। कथं न पूर्वमेव निवेदितं त्वया ? मम हृदयं तु वृक्षस्य कोटरे एक निहितम् । अतः शीघ्र तत्रैव नय अहं स्वहृदयमानीय भातृजायायै दत्त्वा तां तोषयामि इति ।

मूर्खमकर तस्य गूढमाशयम् अबुद्ध्वा वानरं पुनस्तमेव वृक्षमनयत् ततः वृक्षमारुय वानरः अवदत् धिङ् मूर्ख! अपि हृदयं शरीरात् पृथक् तिष्ठति ? अतः गच्छ सम्प्रति त्वया सह मम मैत्री समाप्ता, सत्यमुक्तं केनचित् कविना

विश्वासो हि ययोर्मध्ये तयोर्मध्येऽस्ति सौहृदम्

यस्मिन्नवास्ति विश्वासः तस्मिन् मैत्री वय सम्भवा ।


शब्दार्थाः


दातुम् = देने के लिए । जाया = पत्नी । प्रतिदिनमीदृशानि = रोज ऐसे (इस प्रकार के) । नूनम् = निश्चित रूप से । जम्बूभक्षकस्य = जामुन खानेवाले का । स्पृहा = इच्छा, अभिलाषा । तर्हि = तो । आनय = ले आओ । विवशः = मजबूर भ्रातृजाया = भाभी | अलम् = बस, और न करना, मना करना | स्वपृष्ठे अपनी पीठ पर धूत्वा = धारण करके बिठा करके । नेष्यामि = ले जाऊँगा। विश्वस्तः = विश्वास करके कोटरे खोखर में । उपाविशत् = बैठ गया । दातुमेव ( दातुम् +एव) = देने के लिए ही । निहितम् = रखा हुआ । परितोषयामि = संतुष्ट करुँगा / प्रसन्न करुँगा गूढम् = छिपे हुए / गुप्त । अबुदध्वा = न जानकर | वृक्षमारुह्य = वृक्ष पर चढकर । ययोः = जिन दो के । तयोः = उन दो के । सौहृदम् = सुहृद्भाव / मित्रता । सम्भवा हो सकता है । नद्यामवसत् (नद्याम् + अवसत) = नदी में रहता था। पत्न्यै = पत्नी के लिए । वृक्षस्कन्धात् = पेड़ के तने से । तत्रैव (तत्र + एव) = वहीं अनयत् = ले गया । अतः परम् = इसके बाद


अभ्यासप्रश्नाः


निम्न प्रश्नों के उत्तर संस्कृत में एक वाक्य में लिखिए-

(क) जम्बूवृक्षः कुत्र आसीत् ?

उत्तर-

(ख) वानर प्रतिदिन कस्मै जम्बूफलानि अयच्छत् ?

उत्तर-

(ग) मकर वानरं पुनः कुत्र अनयत् ?

उत्तर-

(घ) मकरः कुत्र वसति स्म 2

उत्तर-

(2) निम्न प्रश्नों के उत्तर संस्कृत

उत्तर-

Related Articles