मनोरमा कक्षा 8वीं

महर्षिः दधीचिः Maharishi: Dadhichi:

भारतीया संस्कृतिः सर्वश्रेष्ठा संस्कृति अस्ति। दानं दया, समता परोपकार इत्यादयो गुणा: भारतीयसंस्कृत अङ्गानि सन्ति। स्वार्थ परित्यज्य परोपकारार्थ जीवनसमपर्णेन अनेके मुनय, महर्षयः राजान सामान्यनागरिकारच भारतीयसंस्कृतिम् अरक्षन अतएव ते सादर स्मर्यन्ते । अतिथिरक्षाये करस्थ स्थालं प्रयच्छन राजर्षिरन्तिदेव कपोतरक्षायै स्वदेहमान्सं ददानों महाराज शिवि, देवरक्षायै स्वशरीरस्यास्थीनि प्रयच्छन् महर्षिदधीचिश्चैतादृशा एवं श्रद्धेयाः स्मरणीयाः महापुरुषाः सन्ति ।

महर्षेः दधीचे: नाम सर्वेषु परोपकारिषु महापुरुषेषु अग्रगण्यः मन्यते। देवराजेन्द्रस्य परीक्षायामुत्तीर्णो रन्तिदेवः शिविश्च उभौ अपि अन्ते देहवन्तौ जीवितौ आस्ताम्। किन्तु दधीचिस्तु सर्वकालाय देह विमुच्य यशशरीरो अभवत्। वस्तुतः तत्समस्त्यागी न भूतो न भविष्यति । प्राचीनकाले कदाचिद् देवानां दानवानां च भयङ्करसंग्रामोऽभूत् । तस्मिन् सङ्ग्रामे देवानां

नायकः इन्द्रः दानवानां नायकश्च वृत्रासुरः आसीत्। वृत्रासुरेण सह संघर्षे देवनायकः इन्द्रः पराजितः इन्द्रस्यादेशेन पराजिता देवाः देवरक्षक भगवन्तं विष्णुम उपगम्य स्वरक्षायै प्रार्थयन् । प्रार्थना श्रुत्वा प्रसन्नो भगवान् विष्णुः अब्रवीत् यत् वर ब्रुवत देवा अब्रुवन् भगवन! दानवानां नायको वृत्रासुर देवराजस्य इन्द्रस्य सकला देवसेना पराजयत स दानवराजोऽस्माकं सर्वाणि शस्त्राणि अपि अनश्यत् भवान् अस्मान् रक्षतु ।

भगवान् विष्णुः उवाच भो देवा! इदानीं महर्षि दधीचि सर्वेषाम् ऋषीणां शिरोमणिः वर्तते ।

व्रतोपवास तपसा च तस्य महात्मनो देह पावनः सम्पन्नः तस्य देहस्य अस्थिभिः यदि वज्रस्य निर्माण

भवेत् तर्हि तेन वज्रेण वृत्रासुरस्य वध समवोऽस्ति । अतः सत्वरं गत्वा तं महर्षि तदेह याचत । स

ऋषिधर्मस्य मर्मज्ञो वर्तते। ऋषयः खलु परोपकारिणो भवन्ति। सः परोपकारार्थ अवश्य स्वदेह दास्यति । नगवतो विष्णो आदेशेन देवा महर्षे दधीचे समीपं गतवन्तः । तत्र गत्वा ते वृत्रासुरस्य अत्याचार वर्णयित्वा तदक्याय महर्षे देहम् अयाचन् । दधीचि उवाच भो देवा ! यो नरः शरीरं क्षणभङ्गुर मत्वा अपि सनातनस्य धर्मस्य पालन न करोति स सर्वदा निन्दनीयो भवति। नदी वृक्षादयो जडपदार्था अपि तं स्वार्थिनं निन्दन्ति । यः खलु प्राणिनां शोके शोक, हर्षहर्ष च अनुभवति स एवं प्रशंसनीयो भवति ।

अतः देवकार्याय शरीरं मुञ्चतो लेशतोऽपि व्यथा न भविष्यति । एवमुक्त्वा महर्षि दधीचि भगवन्तं घ्यायन स्वदेहम अत्यजत् देवशिल्पी विश्वकर्मा तै अस्थिभिः वज्रस्य निर्माणम् अकरोत् । तेन वज्रेण देवराज इन्द्रो वृत्रासुरस्य वधं चकार एतेन महता त्यागमहिमभ्या महर्षि दधीचिः अद्यापि सादर सम्मानयते, यश शरीरेण च अद्यापि जीवति।

परोपकाराय सतां विभूतयः


शब्दार्थाः


स्मर्यन्ते स्मरण करते हैं। करस्थम= हाथ में स्थित स्थालम = थाली को ददानो = देते हुए। देहवन्तौ = शरीरधारी विमुच्य = छोड़कर उपगम्य = पास जाकर सकलाम् = समस्त। अनश्यत् = नष्ट कर दिया। शिरोमणि = श्रेष्ठ या प्रमुख वज्र = कठोर (अस्त्र का नाम)। तर्हि = तो। मर्मज्ञ = विशेषज्ञ या मर्म को जानने वाला। अयाचन् = मांगे। क्षणभङ्गुरं नाशवान | मुञ्चतो छोड़ते हुए। लेशतोऽपि = थोड़ा भी चकार = किया।


अभ्यासप्रश्नाः


संस्कृत में उत्तर दीजिए-

(क) परोपकारेषु कस्य नाम अग्रगण्यं मन्यते ?

उत्तर-

(ख) दानवानां नायकः कः आसीत् ?

उत्तर-

(ग) इन्द्रस्यादेशेन देवाः किम् अकुर्वन् ?

उत्तर-

(घ) केन वज्रः निर्मितः

उत्तर-

Related Articles