मनोरमा कक्षा 8वीं

राष्ट्रियः सञ्चयः National: Sanchayah

ख्यातिः- गुरो! अस्मिन् वृक्षे कि लम्बते ?

शिक्षकः- ख्याते! किं त्वमेतं न जानासि? अयं मधुकोशः ।

प्रत्यूष:- केन मधुकोशोऽयं निर्मित ?

शिक्षक: प्रत्यूष! मधुमक्षिका शनैः

शनैः पुष्परसम् आहृत्य एकत्रितं कुर्वन्ति। यदि कोऽपि मधु ग्रहीतुमायाति तर्हि मक्षिका तं दशन्ति

शिवा गुरो । शनैः शनैः पुष्परस कथम् एतावान् महान्

मधुकोशः जायते?

शिक्षक: शिवे न जानासि ? इद वचनम् प्रसिद्धमस्ति ‘जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

श्यामा आम्। ज्ञातम्! अहमपि

एकैकस्य रुप्यकस्य सञ्चयेन शतरूप्यकाणि सञ्चितवती ।

शिक्षक: त्वम् अस्य घनस्य प्रयोग कथं करिष्यसि ?

श्यामा गुरो! अहं भूचालेन पीडितजनाना सेवार्थ इदं धनं समर्पयिष्यामि।

शिक्षकः- बाढम्! त्वं द्वे कार्ये साधु अकरो। प्रथमं स्वव्ययार्थ प्राप्तस्य धनस्य सञ्चयः, द्वितीयं च तस्य सञ्चितस्य धनस्य भूचालपीडितजनानां सहायतार्थ प्रदानम् । (कक्षायाम् अन्यान् छात्रान् सम्बोध्य)

शिक्षक :- छात्राः। श्यामां पश्यन्तु। अनया स्वव्ययार्थं प्राप्तधनस्य न केवलं सञ्चयः कृतः अपितु भूचालपीडितेभ्यः प्रदाय सदुपयोगोऽपि कृतः ।

पुष्कर:- गुरो! धनसञ्चयस्तु कोषालयपत्रालयमाध्यमेन च भवति । कृपया भवान् तद्विषये अस्मान् उपदिशतु । शिक्षक:- आम्!

छात्राः! देशस्य आर्थिक, सामाजिक, औद्योगिक विकासाय च धनमावश्यकम्।

ख्याति:- गुरो! धनप्राप्तेः साधनानि कानि कानि ? शिक्षक- धनप्राप्तिसाधनेषु करग्रहण औद्योगिकोत्पादन इत्यादीनि साधनानि निर्यात सन्ति । कोषालय पत्रालय -माध्यमेन च नागरिकाः राष्ट्रियसञ्चययोजनान्तर्गत धनसङ्ग्रह कुर्वन्ति ।

शिवा- राष्ट्रिय सञ्चयः योजना का ?

शिक्षक:- शासनेन नगरेषु ग्रामेषु च कोषालयानां पत्रालयानां च शाखाः स्थापिताः । तेषु बालकाः बालिका वयस्काश्च धनसञ्चयं कुर्वन्ति । तत्र पत्रालयाना सेवा विशेषरूपेण उल्लेखनीया अस्ति।

श्यामा तत् कथम ?

शिक्षक: पत्रालयसञ्चालिताः अनेकाः सञ्चययोजनाः सन्ति ।

पुष्कर:- ताः का ?

शिक्षक:- सञ्चयपुरस्कारयोजना संरक्षितसञ्चययोजना, भविष्यनिधियोजना’ इत्यादयः ।

श्मामा- अहो! पत्रालयमाध्यमेन तु अनेकाः सञ्चययोजना सञ्चालिताः । शिक्षकः- अथकिम् ? छात्राणां लाभाय पत्रालयमाध्यमेन विद्यालयेषु सञ्चायिका योजनायाः अपि व्यवस्था अस्ति।

प्रत्यूष गुरो सञ्चायिकायोजनाविषये किञ्चित् कथय ?

शिक्षक :- अवश्यम्! श्रृणुत! सञ्चायिकायोजनाया सञ्चेतुं सुविधा अस्ति । विद्यालयेषु सञ्चालित योजनायां पुरस्कारार्थ व्यवस्था अस्ति।

ख्याति: गुरो! यदि एवं तर्हि, वयम् अपि स्वकीयं धनं पत्रालयेषु सञ्चितं करिष्यामः । शिक्षक:- अवश्यं कुरुत आसां सर्वासा योजनानां विषये विवरणं पत्रालयेभ्यः प्राप्तुं शक्यते ।

छात्राः राष्ट्रियसञ्चययोजना व्यक्तेः, समाजस्य, देशस्य च विकासाय सहायिका। भारतसदृशविकासशीलदेशेषु तु आसां योजनानां महती उपयोगिताऽस्ति । अतः अस्माभिः सञ्चययोजनानां प्रसाराय प्रयत्नो विधेयः । उक्तमपि

क्षणशः कणशश्चैव विद्यामर्थञ्च चिन्तयेत्


शब्दार्थाः


लम्बते = लटकना जानासि = जानते हो। मधुकोशः = मधुमक्खियों का छत्ता मधुमक्षिकाः = मधुमक्खियाँ आहृत्य = लाकर ग्रहीतुमायाति = लेने के लिए आता है। दशन्ति = डस लेती हैं।

कथम् = कैसे। जायते = होता है। निपातेन गिरने से पूर्यते भरता है। घटः = घड़ा। ज्ञातम् = = समझ गया। सञ्चयेन = सञ्चय से। करिष्यसि = करोगे। जलाप्लावनाद = बाढ़ से साधु = अच्छा। बाढम् = अवश्य स्वव्ययार्थं अपने खर्च के लिए पत्रालयः = डाकघर कोषालयः = बैंक। उपदिशतु = उपदेश करें। श्रृणुत= सुनो प्रसाराय प्रसार के लिए विधेयः = करना चाहिए। क्षणश = क्षण-क्षण से कणशः = कण-कण से।


अभ्यासप्रश्नाः


निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए –

(क) वृक्षे किं लम्बते ?

उत्तर-

(ख) मधुमक्षिकाः किं कुर्वन्ति ?

उत्तर-

(ग) घटः कथं पूरितो भवति ?

उत्तर-

(घ) श्यामा किं सञ्चितवती ?

उत्तर-

(ङ) श्यामा सञ्चितद्रव्यस्य उपयोग कुत्र करिष्यति ?

उत्तर-

Related Articles