मनोरमा कक्षा 8वीं

प्राच्यनगरी सिरपुरम् oriental city sirpuram

सिरपुरं दक्षिणकौशलस्य राजधानी आसीत्। पुरा अस्य नाम श्रीपुरम् इति ख्यातम् सिरपुरं रावपुरात 85 (पञ्चाशीतिः) किलोमीटर दूरे उत्तरपूर्वदिशि महानद्यास्तीरे विद्यते। इयं नगरी पाण्डुवंशीयानां राज्ञां राजधानी आसीत्। अत्र स्थित्या पाण्डुवंशीयनृपाः दक्षिणकौशलराज्यान्तर्गते शासति स्म। ते कौशलाधिपतिरिति उपाधिना अलङ्कृताः अभवन्

सिरपुरे अनेकानि दर्शनीयमन्दिराणि सन्ति । तानि मन्दिराणि ख्यातिलब्धानि महानद्याः तटे गन्धेश्वर महादेवमंदिरम अतिरमणीयमस्ति। श्रावणमासे तीर्थयात्रिणः वहनिकया जलं आनयन्ति। तज्जलं शिवं प्रति अर्पयन्ति पूजयन्ति च मन्दिरस्य बाह्यभित्ते गन्धर्वदेवीदेवानां, अप्सराणाम् अटितचित्राणि मनांसि रञ्जयन्ति ।

सप्तम्यां शताब्यां निर्मितं लक्ष्मणमन्दिरं रक्तेष्टिकाभिः शोभते। अत्र इष्टिकायां अपि मूर्तयः उत्कीर्णाः सन्ति । एतद मन्दिरं श्रीपुरनरेशस्यशिवगुप्तस्य मात्रा निर्मितम् । तस्याः नाम महाराज्ञी वासटा आसीत्। सा वैष्णवी आसीत्। तथा इदं मन्दिरं स्वपतेः महाराजहर्षगुप्तस्य स्मृत्या निर्मितम् । इदं मन्दिरं विष्णुमन्दिरमासीत्। कालान्तरे तन्मन्दिरं लक्ष्मणमन्दिरस्य नाम्ना विख्यातम् लक्ष्मणमन्दिरं निकषा राममन्दिरमस्ति । अस्य मन्दिरस्य स्वभव्यता अद्वितीयास्ति। अत्र बौद्धविहार -स्वास्तिक-विहारयोः अवशेषौ प्राप्तौ। बौद्धविहारे भगवतः बुद्धस्य विशालप्रतिमा प्रतिष्ठिता।

यस्य सर्जकः भगवतः बुद्धस्य प्रियशिष्यः बौद्धभिक्षु आनन्दप्रभुः आसीत् । सिरपुरस्य भव्य संग्रहालयोऽपि दर्शनीयोऽस्ति संग्रहालये शैद वैष्णव बौद्ध – जैनसम्प्रदायानां विविधाः प्रतिमाः विद्यन्ते। हर्षवर्द्धनस्य काले चीनीयात्री हेनसाङ्ग भारतं समायातः । तेन श्रीपुरस्य श्रीसमृद्धयोः वर्णनं कृतम् । एतत् छत्तीसगढस्य प्रमुखपर्यटनस्थलमस्ति ।

प्रतिवर्षे अत्र बुद्धपूर्णिमावसरे सिरपुरमहोत्सवः समायोज्यते । अस्मिन् अवसरे देशविदेशानां अनेके कलानुरागिणः आयान्ति। सिरपुरं छत्तीसगढराज्यस्य प्रसिद्ध धार्मिक ऐतिहासिकञ्च केन्द्रमस्ति। ऐतहासिकदृष्ट्या सिरपुरं छत्तीसगढराज्यस्य काशी इति अभिधीयते ।


शब्दार्थाः


ख्यातः = प्रसिद्ध हुआ। शासति स्म = शासन करते थे। उपाधिना = उपाधि से। अलङ्कृताः = विभूषित हुए। ख्यातिलब्धानि = प्रसिद्ध है। महानधास्तीरे = महानदी के किनारे । वहनिकायाम् = कॉवर में आनयन्ति = लाते हैं। तज्जलम् = तत्+जलम् = उस जल को अर्पयन्ति = अर्पित करते हैं। बाह्यभित्तेः = बाहर की दीवाल में। मनांसि = मन को। रक्तेष्टिकायाम् = लाल ईंटों में। उत्कीर्णाः = खुदे हुए। निकषा = समीप। सर्जकः = निर्माता। भव्यसङ्ग्रहालयोऽपि = विशाल सङ्ग्रहालय भी। समायातः = आया। समायोज्यते = आयोजन किया जाता है। कलानुरागिणः कलाप्रेमी अभिधीयते नाम से जाना जाता है।


अभ्यासप्रश्नाः


निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए

(क) सिरपुरं कस्य राजधानी आसीत् ?

उत्तर– सिरपुर, दक्षिण बरालस्य राजधानी आसीत

(ख) सिरपुरस्य पुरा नाम किम् आसीत् ?

उत्तर– सिरपुरस्य पुरा नाम श्रीपुरम् आसीत ।

(ग) तीर्थयात्रिणः कया जल आनयन्ति ?

उत्तर– तीर्थयात्रिय: षनिकायां जलं अपयन्ति

(घ) मन्दिरे कानि कानि चित्राणि सन्ति ?

उत्तर– मन्दिरस्य बायः दिले गन्धवदिवी देवाना, आहित चित्राणि सन्ति ।

(ङ) महाराज्ञी वासटा कस्य माता आसीत ?

उत्तर– महाराजी वाजय श्रीपुर नरेशस्य शिवगुप्त रञमाता आसील

Related Articles