मनोरमा कक्षा 8वीं

रामगिरिः (रामगढम्) Ramgiri (Ramgarh)

छत्तीसगढप्रदेशस्य उत्तरस्यां दिशि मुकुटमिव सरगुजामण्डल स्थितमस्ति रत्नगर्भ भूभागोऽयं वन्यशोभामपि धारयति। अत्र अनेकानि ऐतिहासिक पुरातात्विक स्थलानि सन्ति तेषु अन्यतम :- रामगिरि (रामगढम्) ।

इदं स्थानम् अम्बिकापुरात् पञ्चचत्वारिंशत् कि.मी. दूरे दक्षिणदिशि वर्तते। रामगढपर्वते हस्तिपोल (हाथीपोल) सीतावेंगरा, जोगीमाडा, लक्ष्मणवेंगरा इत्येतानि महत्वपूर्णस्थानानि सन्ति ।

हस्तिपोलेति 180 फुट परिमिता प्राकृतिकसुरङ्गिका अस्ति। अस्य अन्तर्भाग स्रोतः प्रवहति । अत्रैव एक शीतल जलकुण्डं वर्तते।

यत् सीताकुण्डमिति कथ्यते । अत्र श्रीरामः वनवासकाले किञ्चितकालं न्यवसत् विश्वकविः कालिदास अत्रैव निवसन् ‘मेघदूतम’ इति काव्यस्य रचनामकरोत् । तेन दूतकाव्ये सीतायाः स्नानेन अत्रत्यजलानि पुण्यानि, तरवः स्निग्धच्छाया इति रामगिरे वर्णनं कृतम् । हस्तिपोलसुरङ्गस्योपरि एका नाट्यशाला अस्ति। जनाः या सीतावेंगरा’ इति कथयन्ति ।

पुरातत्वविद सीतावेंगरा गुहां खीस्ताब्दात् द्वितीया तृतीया वा शताब्दिपूर्वा प्राचीनतमा नाट्यशाला इति मन्यन्ते । इयं नाट्यशाला बृहत्शिला कर्तयित्वा निर्मिता। अस्या रूपाङ्कन भरतमुनिनानाट्यशास्त्रे कृतम् इयं नाट्यशाला आयताकारा अनुमानतः आयाम (लम्बाई) 44.00 ( फुट) विस्तार (चौड़ाई) 15 (फुट) इति क्षेत्रे परिमिता। अस्याः भित्तयः सरला द्वार गोलाकार, अन्तर्भाग प्रस्तर आसनानि सन्ति। अस्याः उपयोगः नाट्यस्य कृते अभवत् । ब्राह्मीलिप्यामुत्कीर्ण एक शिलालेखोऽस्ति । अयं • भारतस्य इतिहास अद्वितीयः अस्ति। अस्याः अनुसन्धान 1848 खीस्ताब्दे कर्नल आउस्ले इति महाभागेन कृतम्।

सीतावेंगरा गुहाया पार्श्वे अन्या गुहा जोगीमाडा’ अस्ति। अस्याः भित्तयः वज्रलेपेन प्रलिप्ताः सन्ति छदि मित्तिषु च पत्र-पुष्प, पशु-पक्षी, नर-नारी, देव-दानव, योद्धृ-हस्तिनां चित्राणि सन्ति। एषां भित्तिचित्राणां विशिष्टमहत्वमस्ति। भित्तिचित्राणा प्रकाशन 1904 ईसवीये डॉ० ब्लाश: भारतीय चित्रकलाया: विज्ञः आर०ए० अग्रवाल महाभागःच अकुरुताम् अस्यां पालिभाषायां एकः

शिलालेखः उत्कीर्णः। शिलालेखेरूपदक्षदेवदीनस्य देवदासीसुतनुकायाश्च प्रणयगाथा वर्णिता अस्ति। जोगीमाडा गुहायाः अग्रभागे अपरा लक्ष्मणवेंगरा गुहा अस्ति। पर्वतस्योपरि एक सिंहद्वारमस्ति । द्वारस्य प्रस्तरः वृहदाकारोऽस्ति तत्र मूर्तिमन्दिरतडागावशेषाः प्रमाणयन्ति यत् इदं क्षेत्रम् पुरा दुर्गम् आसीत्।

रामगिरिः वनदेव्याः ललितपुरेतिहासस्य संधाता संस्कृतभाषायाश्च स्वर्णिमकालदृष्टा अस्ति। अत्र आषाढमासस्य प्रथमदिवसे छत्तीसगढसंस्कृत अकादम्याः गरिमामयः सांस्कृतिक कार्यक्रमः विचारगोष्ठी च आयोज्यते। आयोजने संस्कृतभाषायाः विद्वांसः इतिहासविद पुरातत्वविद जनान् उद्बोधयन्ति तर्कयन्ति, विचारयन्ति अनन्योऽयं यत् रामगिरिरित्येव ।


शब्दार्थाः


मण्डलम् = जिला । अन्यतम बहुत में से एक वेंगरा अतिथि कक्ष (सरगुजिया बोली में)। स्रोतसोता, झरना निवसन निवास करते हुए स्निग्धच्छाया घनी छाया नाट्यशाला रंगमंच, नाटक खेलने का घर खीस्ताब्दात ईसवी सन् से वृहशिलाम बड़ी चट्टान को कर्तयित्वाकाटकर । प्रस्तरआसनानि = बैठने के लिये पत्थर के आसन नाट्यस्य-नृत्य, गीत और वाद्य का उत्कीर्णम-खुदा हुआ। अनुसन्धानम् खोज पार्श्वे बगल में छदि छत में वज्रलेपेन एक प्रकार का मशाला या लेप जो मजबूती के लिए दीवार पर लगाया जाता है। भित्तिषु दीवारों में विज्ञ= जानकार पालिभाषायाम पाली भाषा में इस भाषा का प्रयोग बौद्धसाहित्य एवं अशोक के शिला लेखों में हुआ है।)। जोगीमाडा=जोगियों के रहने की गुफा (सरगुजिहा बोली में)। रूपदक्षदेवदीनस्य = नाटको में रूप सज्जा का काम करने वाले देवदीन की अवशेषाबचे हुए शेष दुर्ग-गढ़ संचाता= धारण करने वाला।


व्याकरणम्


सन्त्रि भूभागोऽयम् भूभागः + अयम् (विसर्ग सन्धि ) । इत्येतानि इति + एतानि (यण् स्वर सन्धि)। कञ्चित् कं+चित् – (व्यञ्जन सन्धि ) । अत्रैव-अत्र+एव-वृद्धि स्वर सन्धि पर्वतस्योपरि पर्वतस्य+उपरि- ( गुण स्वर सन्धि)। वृहदाकार वृहत् + आकार:- (व्यञ्जन सन्धि)। पुरेतिहास्य- पुरा इतिहासस्य- (गुण स्वर सन्धि)। रामगिरिरिति रामगिरिः इति (विसर्ग सन्धि ) ।

प्रत्यय

1-तद्धित

ऐतिहासिक इतिहासक+इक (सम्बन्धी तद्धित प्रत्यय)। अन्यतम- अन्य+तमम् (अतिशय बोधक तद्धित प्रत्यय)। प्राचीनतमा प्राचीन+तमप् (अतिशय बोधक तद्धित प्रत्यय) ।

2- कृदन्त

निवसन- निः+यस+शत (अत्) (वर्तमानकालिक कृदन्त) । अनु-सम् + धा+ ल्युट् (अन) अनुसन्धानम्।

समास

सीताकुण्डम-सीतायाः कुण्डम् पष्ठीतत्पुरूष स्निग्धच्छाया-स्निग्धा छाया (कर्मधारय)। नाट्यशाला-नाट्यस्यशाला (तत्पुरुष समास)| अनन्यः न अन्यः (नञ् तत्पुरुष समास) ।


अभ्यासप्रश्नाः


निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए-

(क) सरगुजामण्डलं कुत्र स्थितम् अस्ति ?

उत्तर-

(ख) रामगिरिः कस्मिन् मण्डले स्थितः अस्ति ?

उत्तर-

(ग) शीतलं जलकुण्डं किं कथ्यते ?

उत्तर-

(घ) का गुहां प्राचीनतमा नाट्यशाला मन्यन्ते ?

उत्तर-

(ङ) पर्वतस्य उपरि किम् अस्ति ?

उत्तर-

Related Articles