मनोरमा कक्षा 8वीं

षड्ऋतुवर्णनम् Shadrituvarnanam

अस्माक देशे षड़ऋतवः भवन्ति । ते इमे वसन्त – ग्रीष्म वर्षा- शरद हेमन्त शिशिराश्च एतेषु वसन्त ऋतुराजः इति कथ्यते। अस्यागमः C22IK माघशुक्लपञ्चम्यां तिथौ भवति। अस्मिन् दिने वाग्देव्याः पूजनमपि भवति। वसन्ते समशीतोष्णवातावरणं भवति। शीतलः मन्दः सुगन्धः मलयानिलः प्रवहति वने उपवने च विविधानि पुष्पाणि विकसन्ति। पिका: कूजन्ति वनचराः नभचराः प्रमुदिताः भवन्ति । वृक्षाः नवपल्लवानि धारयन्ति । आम्रवृक्षाः मञ्जरीभिः अतीव शोभन्ते ।

वसन्ते गते ग्रीष्मः आगच्छति। ग्रीष्मे प्रचण्डसूर्यातपेन धरा तपति प्रचण्डघर्मोष्मणा रोगकारक विषं स्वेद बिन्दुरूपेण शरीरात बहिः निर्गच्छति। हरितवर्णाम्रफलं पक्वा पीतायते। तानि पक्वानि आम्रफलानि अतीव मधुराणि भवन्ति। ग्रीष्म ऋतो व्यतीते सति प्रचण्ड समीर प्रवहति। स एव वर्षाऋतोः आगमनं सूचयति। वर्षाऋतौ जलदः स्वजलधाराभिः पृथिवीं पूरयति। कृषकाः कृषिभूमि हलेन कर्षन्ति, बीजं वपन्ति च अतिवृष्ट्या नद्यः जलेन परिपूर्णाः भवन्ति ।

ततः शरद् ऋतु आयाति चन्द्रस्य धवलज्योत्सनया सम्पूर्णधरा जलमिव आभाति । शरदि सम्पूर्णभारतीयाः उत्सवेषु निमग्नाः प्रतीयन्ते । शरदन्ते हेमन्तः आगच्छति। हेमन्ते वयं महत् शीतमनुभवामः जनाः ऊर्णवस्त्राणि धारयन्ति दिवसः लघु निशा च दीर्घा भवति। अस्मिन् काले तण्डुलयुक्ताः शालय कनकप्रभा इव दृश्यन्ते । ततः शिशिर आयाति । शिशिरे शीता पवना वहन्ति। वृक्षाणां पत्राणि जीर्णानि भूत्वा पृथिव्यां पतन्ति । शिशिरसमापनावसरे जनाः वसन्तागमनस्य प्रफुल्लतायां पीतवस्त्राणि धारयित्वा हर्षमनुभवन्ति ।


शब्दार्थाः


समशीतोष्ण = ठण्ड व गर्मी समान। मलयानिलः = मलय पर्वत से बहने वाली हवा वनचरा = वन में विचरण करने वाले (हरिणादि पशु) । नभचरा = आकाश में विचरण करने वाले (पक्षी) पीतायते = पीले हो जाते हैं। जलदः = जल देने वाला (बादल) प्रमुदिताः = प्रसन्न । शालयः = धान | तण्डुल = चावल पीतवस्त्राणि = पीले रंग के कपड़े। आभाति दिखाई पड़ती है।


अभ्यासप्रश्ना:


निम्न प्रश्नों के उत्तर संस्कृत में लिखिए-

(क) अस्माक देशे कति ऋतवः भवन्ति ?

उत्तर- 

(ख) वसन्तर्तु कीदृशः भवति ?

उत्तर-

(ग) शरद ऋतुः कदा आगमिष्यति ?

उत्तर-

(घ) हेमन्ते जनाः कीदृशानि वस्त्राणि धारयन्ति ?

उत्तर-

(ङ) वाग्देव्या पूजनं कदा भवति ?

उत्तर-

Related Articles