मनोरमा कक्षा 8वीं

महाकविः कालिदासः The great poet: Kalidas:

कविकुलगुरु कालिदासम् अस्मिन्युगे को न जानाति । विद्वदिभिः विश्वस्य साहित्यकारेषु अस्य गणना कृता। बहवः विद्वांसः उज्जयिन्यामेव अस्य जन्मभूमि मन्यन्ते । अनेनैव हेतुना तस्य कृतिषु उज्जयिन्याः वर्णन सञ्जातम् उक्तम् च “विक्रमादित्यस्य नवरत्नेषु कालिदासः एकः कथ्यते कालिदासः महामूर्ख आसीत्। राज्ञः शारदानन्दस्य विद्योत्तमा नाम्नी एका विदुषी कन्या आसीत्। सा स्वविद्यया अतिदर्पशीला आसीत्।

सा प्रतिज्ञातवती यत् शास्त्रार्थ यः मां पराजेष्यति, तेन सह विवाह करिष्यामीति। ता प्रतिज्ञां श्रुत्वा बहवः विद्वांसः आगच्छन् तथा सह शास्त्रार्थ सर्वे पराजिताः अभवन् । ईयवशात् ते राजकन्याया विवाह महामूर्खेण सह सम्पादयितुं व्यचारयन्। ते मूर्खस्य अन्वेषणार्थं निर्गताः सहसा कस्यचिद् वृक्षस्य शाखायां स्थित्वा तां शाखां कर्तयन्तम् एक मूर्खम् अपश्यन् । तस्मात् वृक्षात् अचः अवतीर्य ते अवदन तं भो पुरुष! वयं परमसुन्दर्या राजकन्यया सह तव विवाह कर्तुमिच्छामः ।

वयं स्वगुरुरुपेण तव परिचयं दास्यामःपरम् त्वं किमपि न वक्ष्यसि तं मूर्ख नीत्वा विद्वांसः राजकन्यायाः समीपम् आगतवन्तः अवदन् च । एषोऽस्माकं गुरुः सकलशास्त्रपारङ्गतः विद्वान् चास्ति परन्तु सम्प्रति मौन व्रतुं धारयति । तदा राजकन्या विद्योत्तमा एकाम् अङ्गुलिकाम् उत्थाय दर्शितवती यस्यार्थः एको ब्रह्म द्वितीयो नास्ति । तां दृष्ट्वा महामूर्ख कालिदासः व्यचारयत्। एषा मम एक नेत्र स्फोटयितुम् इच्छति अहं तु तव द्वे नेत्रे स्फोटयिष्यामि इति मत्वा स्वकीये द्वे अङ्गुलिके दर्शितवान्। अन्ते राजकन्या पराजिता सजाता। पश्चात् कालिदासेन सह विद्योत्तमायाः परिणयः जातः ।

एकदा रात्री उष्ट्रस्य ध्वनिः अभवत् । ध्वनि श्रुत्वा तस्य भार्या अय ध्वनि केन कृतः इति अपृच्छत् कालिदासेन उष्ट्रशब्दस्य स्थाने उट्र इति शब्द उच्चारित विद्योतमा ज्ञातवती यत् एष मूर्ख अस्ति। सा कालिदासस्य अपमानं कृत्वा गृहात निष्कासितवती कालिदास खिन्नो भूत्वा देवीम् अराधयत् । तदनुग्रहेण सः महान विद्वान अभवत् यदा कालिदासः ज्ञान प्राप्य गृहं प्रत्यावर्तत तदा द्वार पिहितम् आसीत्। सः अकथयत्- अनावृतकपाट द्वार देहि।” भार्या अपृच्छत्- “अस्ति कम्चिद्वाविशेष? कालिदास स्वप्रतिभायाः पत्नीम अतोषयत् पत्न्याः शब्दत्रयम् कालिदासः त्रयाणां काव्याना रचनामकरोत् । आश्रित्य

यथा अस्ति इति शब्देन कुमारसम्भवम् अस्त्युतरस्या दिशि देवतात्मा, कश्चितइति शब्देन मेघदूतम-“कश्चित कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः” तथा वाक् इति शब्देन- रघुवंश महाकाव्यम् “वागर्थाविवसम्पृक्तौ । तदनन्तर कालिदासेन चतुर्णा ग्रन्थानां रचना कृता । कालिदासन मुख्याः सप्तग्रन्थाः विरचिताः। एतेषु द्वे महाकाव्ये रघुवंशमहाकाव्यं कुमारसम्भवञ्च द्वे खण्डकाव्ये मेघदूत ऋतुसंहारञ्च त्रीणि नाटकानि अभिज्ञानशाकुन्तलं, विक्रमोर्वशीय मालविकाग्निमित्रञ्च । तेषु अभिज्ञानशाकुन्तल श्रेष्ठतमा रचनाऽस्ति । जर्मनकवि गेटे महोदयेन अस्य काव्यस्य प्रशंसा कृता । अस्य ग्रन्थस्य विषये एका सुक्ति प्रचलिता

काव्येषु नाटक रम्य तत्र रम्या शकुन्तला • कालिदासस्य भाषा अलङ्कारिकी अस्ति। उपमा अलङ्कारस्य प्रयोगे सः प्रवीणोऽस्ति। उक्तं च- “उपमा कालिदासस्य” एतेषु काव्येषु प्रकृते मनोहराणि चित्राणि लक्ष्यन्ते तस्य प्रकृते अनुरागः आसीत्।

कविकुलशिरोमणिमहाकविकालिदासस्य काव्यरचना विश्वस्य निधिः इति मन्यन्ते जनाः । अधुना महाकविकालिदास पार्थिवशरीरेण नास्ति तथापि यशःकायेन विद्यते। विद्वांस कथयन्ति – जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः नास्ति येषां यश काये जरामरणजं भयम् ।।


शब्दार्थाः


विद्वद्भिः = विद्वानों के द्वारा मन्यन्ते मानते हैं। सञ्जातम् = हुआ है। नाम्नी = नाम। स्वविद्यया अपनी विद्या के कारण दर्पशीला आसीत घमण्डी थी। विवाहं करिष्यामि = विवाह करूंगी। व्यचारयत्= विचार किया अन्वेषणार्थ = ढूँढ़ने के लिए निर्गताः = निकल पड़े। स्थित्वा = बैठकर कर्तयन्तम् = काटते हुए । अवतीर्य = उतारकर । कर्तुमिच्छामः = कराना चाहते हैं। वक्ष्यसि = बोलोगे उत्थाय उठाकर स्फोटयितुम् = फोड़ने के लिए। उष्ट्रस्य = ऊंट की। ज्ञातवती = जान गई। खिन्नो भूत्वा = दुःखी होकर प्रत्यावर्तत् = लौटा। पिहितम् बन्द | अस्तिकविद्वाग्विशेष? वाणी में कुछ विशेषता है ? अस्त्युतरस्यां दिशि देवतात्मा = उत्तर दिशा में देवताओं की आत्मा है। स्वाधिकारात्प्रमत्तः = अपने काम में प्रमाद करने से वागार्थविवसंपृक्ती = शब्द और अर्थ के समान मिला हुआ। अलङ्कारिक = अलङ्कार युक्त यशः कायेन यश रूपी शरीर से जयन्ति = जीवित रहते हैं। जरामरणज= बुढ़ापे और मृत्यु


अभ्यासप्रश्नाः


(क) कालिदासस्य जन्मभूमि कुत्र अस्ति ?

(ख) के मूर्खान्वेषणार्थं निर्गताः ?

(ग) कया सह कालिदासस्य विवाहः जातः ?

(घ) कस्या अनुग्रहेण कालिदासः विद्वान् अभवत् ?

(ङ) कालिदासेन केषां ग्रन्थानां रचना कृता ?

Related Articles